सूक्त ३०
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ३०
Script
Translation
Previous
सूक्त २९
Next
सूक्त ३१
४ मनुर्वैवस्वतः । विश्वे देवाः । १ गायत्री , २ पुरउष्णिक् , ३ बृहती , ४ अनुष्टुप् ।
न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः ।
विश्वे॑ स॒तोम॑हान्त॒ इत् ॥१॥
इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ ।
मनो॑र्देवा यज्ञियासः ॥२॥
ते न॑स्त्राध्वं॒ ते॑ऽवत॒ त उ॑ नो॒ अधि॑ वोचत ।
मा नः॑ प॒थः पित्र्या॑न्मान॒वादधि॑ दू॒रं नै॑ष्ट परा॒वतः॑ ॥३॥
ये दे॑वास इ॒ह स्थन॒ विश्वे॑ वैश्वान॒रा उ॒त ।
अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा॑य यच्छत ॥४॥
Previous
सूक्त २९
Next
सूक्त ३१