सूक्त ११
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ११
Script
Translation
Previous
सूक्त १०
Next
सूक्त १२
१० वत्सः काण्वः । अग्निः ।गायत्री , १ प्रतिष्ठा, २ वर्धमाना , १० त्रिष्टुप् ।
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा ।
त्वं य॒ज्ञेष्वीड्यः॑ ॥१ त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहन्त्य ।
अग्ने॑ र॒थीर॑ध्व॒राणा॑म् ॥२ स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः ।
अदे॑वीरग्ने॒ अरा॑तीः ॥३ अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः ।
नोप॑ वेषि जातवेदः ॥४ मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे ।
विप्रा॑सो जा॒तवे॑दसः ॥५ विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑ ।
अ॒ग्निं गी॒र्भिर्ह॑वामहे ॥६ आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् ।
अग्ने॒ त्वांका॑मया गि॒रा ॥७ पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।
स॒मत्सु॑ त्वा हवामहे ॥८ स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे ।
वाजे॑षु चि॒त्ररा॑धसम् ॥९ प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।
स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒ऽस्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥१०
Previous
सूक्त १०
Next
सूक्त १२