सूक्त १०१
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त १०१
Script
Translation
Previous
सूक्त १००
Next
सूक्त १०२
२२ भार्गवः प्रयोगः, अग्निर्बार्हस्पत्यः, पावको वा, सहसः पुत्रौ गृहपति-यविष्ठौ तयोर्वान्यतरः । अग्निः । गायत्री ।
त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे॑ ।
क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥१॥
स न॒ ईळा॑नया स॒ह दे॒वाँ अ॑ग्ने दुव॒स्युवा॑ ।
चि॒किद्वि॑भान॒वा व॑ह ॥२॥
त्वया॑ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य ।
अ॒भि ष्मो॒ वाज॑सातये ॥३॥
औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे ।
अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥४॥
हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्यं॒ सहः॑ ।
अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥५॥
आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे ।
अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥६॥
अ॒ग्निं वो॑ वृ॒धन्त॑मध्व॒राणां॑ पुरू॒तम॑म् ।
अच्छा॒ नप्त्रे॒ सह॑स्वते ॥७॥
अ॒यं यथा॑ न आ॒भुव॒त्त्वष्टा॑ रू॒पेव॒ तक्ष्या॑ ।
अ॒स्य क्रत्वा॒ यश॑स्वतः ॥८॥
अ॒यं विश्वा॑ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते ।
आ वाजै॒रुप॑ नो गमत् ॥९॥
विश्वे॑षामि॒ह स्तु॑हि॒ होतॄ॑णां य॒शस्त॑मम् ।
अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥१०॥
शी॒रं पा॑व॒कशो॑चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा ।
दी॒दाय॑ दीर्घ॒श्रुत्त॑मः ॥११॥
तमर्व॑न्तं॒ न सा॑न॒सिं गृ॑णी॒हि वि॑प्र शु॒ष्मिण॑म् ।
मि॒त्रं न या॑त॒यज्ज॑नम् ॥१२॥
उप॑ त्वा जा॒मयो॒ गिरो॒ देदि॑शतीर्हवि॒ष्कृतः॑ ।
वा॒योरनी॑के अस्थिरन् ॥१३॥
यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं॑दिनम् ।
आप॑श्चि॒न्नि द॑धा प॒दम् ॥१४॥
प॒दं दे॒वस्य॑ मी॒ळ्हुषोऽना॑धृष्टाभिरू॒तिभिः॑ ।
भ॒द्रा सूर्य॑ इवोप॒दृक् ॥१५॥
अग्ने॑ घृ॒तस्य॑ धी॒तिभि॑स्तेपा॒नो दे॑व शो॒चिषा॑ ।
आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥१६॥
तं त्वा॑जनन्त मा॒तरः॑ क॒विं दे॒वासो॑ अङ्गिरः ।
ह॒व्य॒वाह॒मम॑र्त्यम् ॥१७॥
प्रचे॑तसं त्वा क॒वेऽग्ने॑ दू॒तं वरे॑ण्यम् ।
ह॒व्य॒वाहं॒ नि षे॑दिरे ॥१८॥
न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन॑न्वति ।
अथै॑ता॒दृग्भ॑रामि ते ॥१९॥
यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ ।
ता जु॑षस्व यविष्ठ्य ॥२०॥
यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति ।
सर्वं॒ तद॑स्तु ते घृ॒तम् ॥२१॥
अ॒ग्निमिन्धा॑नो॒ मन॑सा॒ धियं॑ सचेत॒ मर्त्यः॑ ।
अ॒ग्निमी॑धे वि॒वस्व॑भिः ॥२२॥
Previous
सूक्त १००
Next
सूक्त १०२