सूक्त ८१
ऋग्वेदः / संहिता / शाकल / मण्डल ७ / सूक्त ८१
Script
Translation
Previous
सूक्त ८०
Next
सूक्त ८२
६ मैत्रावरुणिर्वसिष्ठः । उषसः ।प्रगाथः=(विषमा बृहती, समा सतोबृहती ) ।
प्रत्यु॑ अदर्श्याय॒त्यु१च्छन्ती॑ दुहि॒ता दि॒वः ।
अपो॒ महि॑ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सू॒नरी॑ ॥१॥
उदु॒स्रियाः॑ सृजते॒ सूर्यः॒ सचाँ॑ उ॒द्यन्नक्ष॑त्रमर्चि॒वत् ।
तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ॥२॥
प्रति॑ त्वा दुहितर्दिव॒ उषो॑ जी॒रा अ॑भुत्स्महि ।
या वह॑सि पु॒रु स्पा॒र्हं व॑नन्वति॒ रत्नं॒ न दा॒शुषे॒ मयः॑ ॥३॥
उ॒च्छन्ती॒ या कृ॒णोषि॑ मं॒हना॑ महि प्र॒ख्यै दे॑वि॒ स्व॑र्दृ॒शे ।
तस्या॑स्ते रत्न॒भाज॑ ईमहे व॒यं स्याम॑ मा॒तुर्न सू॒नवः॑ ॥४॥
तच्चि॒त्रं राध॒ आ भ॒रोषो॒ यद्दी॑र्घ॒श्रुत्त॑मम् ।
यत्ते॑ दिवो दुहितर्मर्त॒भोज॑नं॒ तद्रा॑स्व भु॒नजा॑महै ॥५॥
श्रवः॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नं वाजाँ॑ अ॒स्मभ्यं॒ गोम॑तः ।
चो॒द॒यि॒त्री म॒घोनः॑ सू॒नृता॑वत्यु॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥६॥
Previous
सूक्त ८०
Next
सूक्त ८२