सूक्त ३१
ऋग्वेदः / संहिता / शाकल / मण्डल ७ / सूक्त ३१
Script
Translation
Previous
सूक्त ३०
Next
सूक्त ३२
१२ मैत्रावरुणिर्वसिष्ठः । इन्द्रः ।गायत्री, १०-१२ विराट् ।
प्र व॒ इन्द्रा॑य॒ माद॑नं॒ हर्य॑श्वाय गायत ।
सखा॑यः सोम॒पाव्ने॑ ॥१॥
शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नरः॑ ।
च॒कृ॒मा स॒त्यरा॑धसे ॥२॥
त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो ।
त्वं हि॑रण्य॒युर्व॑सो ॥३॥
व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन् ।
वि॒द्धी त्व१स्य नो॑ वसो ॥४॥
मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे ।
त्वे अपि॒ क्रतु॒र्मम॑ ॥५॥
त्वं वर्मा॑सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन् ।
त्वया॒ प्रति॑ ब्रुवे यु॒जा ॥६॥
म॒हाँ उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धाव॑री॒ सहः॑ ।
म॒म्नाते॑ इन्द्र॒ रोद॑सी ॥७॥
तं त्वा॑ म॒रुत्व॑ती॒ परि॒ भुव॒द्वाणी॑ स॒याव॑री ।
नक्ष॑माणा स॒ह द्युभिः॑ ॥८॥
ऊ॒र्ध्वास॒स्त्वान्विन्द॑वो॒ भुव॑न्द॒स्ममुप॒ द्यवि॑ ।
सं ते॑ नमन्त कृ॒ष्टयः॑ ॥९॥
प्र वो॑ म॒हे म॑हि॒वृधे॑ भरध्वं॒ प्रचे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम् ।
विशः॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ॥१०॥
उ॒रु॒व्यच॑से म॒हिने॑ सुवृ॒क्तिमिन्द्रा॑य॒ ब्रह्म॑ जनयन्त॒ विप्राः॑ ।
तस्य॑ व्र॒तानि॒ न मि॑नन्ति॒ धीराः॑ ॥११॥
इन्द्रं॒ वाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा॑नं दधिरे॒ सह॑ध्यै ।
हर्य॑श्वाय बर्हया॒ समा॒पीन् ॥१२॥
Previous
सूक्त ३०
Next
सूक्त ३२