सूक्त ११
ऋग्वेदः / संहिता / शाकल / मण्डल ७ / सूक्त ११
Script
Translation
Previous
सूक्त १०
Next
सूक्त १२
५ मैत्रावरुणिर्वसिष्ठः । अग्निः । त्रिष्टुप् ।
म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयन्ते ।
आ विश्वे॑भिः स॒रथं॑ याहि दे॒वैर्न्य॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह ॥१॥
त्वामी॑ळते अजि॒रं दू॒त्या॑य ह॒विष्म॑न्तः॒ सद॒मिन्मानु॑षासः ।
यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा॑न्यस्मै सु॒दिना॑ भवन्ति ॥२॥
त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू॑नि॒ त्वे अ॒न्तर्दा॒शुषे॒ मर्त्या॑य ।
म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा॑ नो दू॒तो अ॑भिशस्ति॒पावा॑ ॥३॥
अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ऽग्निर्विश्व॑स्य ह॒विषः॑ कृ॒तस्य॑ ।
क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताऽथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥४॥
आग्ने॑ वह हवि॒रद्या॑य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा॑दयन्ताम् ।
इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥५॥
Previous
सूक्त १०
Next
सूक्त १२