सूक्त १०२
ऋग्वेदः / संहिता / शाकल / मण्डल ७ / सूक्त १०२
Script
Translation
Previous
सूक्त १०१
Next
सूक्त १०३
३ मैत्रावरुणिर्वसिष्ठः ।{ वृष्टिकामः} कुमार आग्नेयो वा । पर्जन्यः । गायत्री, २ पादनिचृत ।
प॒र्जन्या॑य॒ प्र गा॑यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे॑ ।
स नो॒ यव॑समिच्छतु ॥१॥
यो गर्भ॒मोष॑धीनां॒ गवां॑ कृ॒णोत्यर्व॑ताम् ।
प॒र्जन्यः॑ पुरु॒षीणा॑म् ॥२॥
तस्मा॒ इदा॒स्ये॑ ह॒विर्जु॒होता॒ मधु॑मत्तमम् ।
इळां॑ नः सं॒यतं॑ करत् ॥३॥
Previous
सूक्त १०१
Next
सूक्त १०३