सूक्त ६०
ऋग्वेदः / संहिता / शाकल / मण्डल ६ / सूक्त ६०
Script
Translation
Previous
सूक्त ५९
Next
सूक्त ६१
१५ बार्हस्पत्यो भरद्वाजः ।
इन्द्राग्नी ।
गायत्री;१-३, १३ त्रिष्टुप् ,१४ बृहती,१५ अनुष्टप् ।
श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ॥१॥
ता यो॑धिष्टम॒भि गा इ॑न्द्र नू॒नम॒पः स्व॑रु॒षसो॑ अग्न ऊ॒ळ्हाः ।
दिशः॒ स्व॑रु॒षस॑ इन्द्र चि॒त्रा अ॒पो गा अ॑ग्ने युवसे नि॒युत्वा॑न् ॥२॥
आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मै॒रिन्द्र॑ या॒तं नमो॑भिरग्ने अ॒र्वाक् ।
यु॒वं राधो॑भि॒रक॑वेभिरि॒न्द्राग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ॥३॥
ता हु॑वे॒ ययो॑रि॒दं प॒प्ने विश्वं॑ पु॒रा कृ॒तम् ।
इ॒न्द्रा॒ग्नी न म॑र्धतः ॥४॥
उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे ।
ता नो॑ मृळात ई॒दृशे॑ ॥५॥
ह॒तो वृ॒त्राण्यार्या॑ ह॒तो दासा॑नि॒ सत्प॑ती ।
ह॒तो विश्वा॒ अप॒ द्विषः॑ ॥६॥
इन्द्रा॑ग्नी यु॒वामि॒मे॒३ऽभि स्तोमा॑ अनूषत ।
पिब॑तं शम्भुवा सु॒तम् ॥७॥
या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा ।
इन्द्रा॑ग्नी॒ ताभि॒रा ग॑तम् ॥८॥
ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम् ।
इन्द्रा॑ग्नी॒ सोम॑पीतये ॥९॥
तमी॑ळिष्व॒ यो अ॒र्चिषा॒ वना॒ विश्वा॑ परि॒ष्वज॑त् ।
कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया॑ ॥१०॥
य इ॒द्ध आ॒विवा॑सति सु॒म्नमिन्द्र॑स्य॒ मर्त्यः॑ ।
द्यु॒म्नाय॑ सु॒तरा॑ अ॒पः ॥११॥
ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः ।
इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ॥१२॥
उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ ।
उ॒भा दा॒तारा॑वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥१३॥
आ नो॒ गव्ये॑भि॒रश्व्यै॑र्वस॒व्यै॒३रुप॑ गच्छतम् ।
सखा॑यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे॑न्द्रा॒ग्नी ता ह॑वामहे ॥१४॥
इन्द्रा॑ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः ।
वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ॥१५॥
Previous
सूक्त ५९
Next
सूक्त ६१