सूक्त ७
ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त ७
Script
Translation
Previous
सूक्त ६
Next
सूक्त ८
१० इष आत्रेयः । अग्निः । अनुष्टुप्, १० पंक्तिः ।
सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिषं॒ स्तोमं॑ चा॒ग्नये॑ ।
वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥१॥
कुत्रा॑ चि॒द् यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने ।
अर्ह॑न्तश्चि॒द् यमि॑न्ध॒ते सं॑ज॒नय॑न्ति ज॒न्तवः॑ ॥२॥
सं यदि॒षो वना॑महे॒ सं ह॒व्या मानु॑षाणाम् ।
उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥३॥
सः स्मा॑ कृणोति के॒तुमा नक्तं॑ चिद् दू॒र आ स॒ते ।
पा॒व॒को यद् वन॒स्पती॒न् प्र स्मा॑ मि॒नात्य॒जरः॑ ॥४॥
अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं॑ प॒थिषु॒ जुह्व॑ति ।
अ॒भीमह॒ स्वजे॑न्यं॒ भूमा॑ पृ॒ष्ठेव॑ रुरुहुः ॥५॥
यं मर्त्यः॑ पुरु॒स्पृहं॑ वि॒दद् विश्व॑स्य॒ धाय॑से ।
प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे॑ ॥६॥
स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः ।
हिरि॑श्मश्रुः॒ शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ॥७॥
शुचिः॑ ष्म॒ यस्मा॑ अत्रि॒वत् प्र स्वधि॑तीव॒ रीय॑ते ।
सु॒षूर॑सूत मा॒ता क्रा॒णा यदा॑न॒शे भग॑म् ॥८॥
आ यस्ते॑ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से ।
ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये॑षु धाः ॥९॥
इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा॑त॒मा प॒शुं द॑दे ।
आद॑ग्ने॒ अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द् दस्यू॑नि॒षः सा॑सह्या॒न्नॄन् ॥१०॥
Previous
सूक्त ६
Next
सूक्त ८