सूक्त ३५

ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त ३५

Back to Veda

Script

Translation

८ प्रभूवसुराङ्गिरसः । इन्द्रः । अनुष्टुप्, ८ पङ्क्तिः ।
यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र । अ॒स्मभ्यं॑ चर्षणी॒सहं॒ सस्निं॒ वाजे॑षु दु॒ष्टर॑म् ॥१॥
यदि॑न्द्र ते॒ चत॑स्रो॒ यच्छू॑र॒ सन्ति॑ ति॒स्रः । यद् वा॒ पञ्च॑ क्षिती॒नामव॒स्तत् सु न॒ आ भ॑र ॥२॥
आ तेऽवो॒ वरे॑ण्यं॒ वृष॑न्तमस्य हूमहे । वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिन्द्र तु॒र्वणिः॑ ॥३॥
वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑ । स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमि॑न्द्र॒ पौंस्य॑म् ॥४॥
त्वं तमि॑न्द्र॒ मर्त्य॑ममित्र॒यन्त॑मद्रिवः । स॒र्व॒र॒था श॑तक्रतो॒ नि या॑हि शवसस्पते ॥५॥
त्वामिद् वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः । उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हव॑न्ते॒ वाज॑सातये ॥६॥
अ॒स्माक॑मिन्द्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑ । स॒यावा॑नं॒ धने॑धने वाज॒यन्त॑मवा॒ रथ॑म् ॥७॥
अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथ॑मवा॒ पुरं॑ध्या । व॒यं श॑विष्ठ॒ वार्यं॑ दि॒वि श्रवो॑ दधीमहि दि॒वि स्तोमं॑ मनामहे ॥८॥