सूक्त २६
ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त २६
Script
Translation
Previous
सूक्त २५
Next
सूक्त २७
९ वसूयव आत्रेयाः । अग्निः, ९विश्वे देवाः । गायत्री ।
अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ ।
आ दे॒वान् व॑क्षि॒ यक्षि॑ च ॥१॥
तं त्वा॑ घृतस्नवीमहे॒ चित्र॑भानो स्व॒र्दृश॑म् ।
दे॒वाँ आ वी॒तये॑ वह ॥२॥
वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्तं॒ समि॑धीमहि ।
अग्ने॑ बृ॒हन्त॑मध्व॒रे ॥३॥
अग्ने॒ विश्वे॑भि॒रा ग॑हि दे॒वेभि॑र्ह॒व्यदा॑तये ।
होता॑रं त्वा वृणीमहे ॥४॥
यज॑मानाय सुन्व॒त आग्ने॑ सु॒वीर्यं॑ वह ।
दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥५॥
स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा॑णि पुष्यसि ।
दे॒वानां॑ दू॒त उ॒क्थ्यः॑ ॥६॥
न्य१ग्निं जा॒तवे॑दसं होत्र॒वाहं॒ यवि॑ष्ठ्यम् ।
दधा॑ता दे॒वमृ॒त्विज॑म् ॥७॥
प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ।
स्तृ॒णी॒त ब॒र्हिरा॒सदे॑ ॥८॥
एदं म॒रुतो॑ अ॒श्विना॑ मि॒त्रः सी॑दन्तु॒ वरु॑णः ।
दे॒वासः॒ सर्व॑या वि॒शा ॥९॥
Previous
सूक्त २५
Next
सूक्त २७