सूक्त १९
ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त १९
Script
Translation
Previous
सूक्त १८
Next
सूक्त २०
५ वव्रिरात्रेयः । अग्निः । गायत्री, ३-४ अनुष्टुप्, ५ विराड् रूपा ।
अ॒भ्य॑व॒स्थाः प्र जा॑यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत ।
उ॒पस्थे॑ मा॒तुर्वि च॑ष्टे ॥१॥
जु॒हु॒रे वि चि॒तय॒न्तोऽनि॑मिषं नृ॒म्णं पा॑न्ति ।
आ दृ॒ळहां पुरं॑ विविशुः ॥२॥
आ श्वै॑त्रे॒यस्य॑ ज॒न्तवो॑ द्यु॒मद् व॑र्धन्त कृ॒ष्टयः॑ ।
नि॒ष्कग्री॑वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा॑ज॒युः ॥३॥
प्रि॒यं दु॒ग्धं न काम्य॒मजा॑मि जा॒म्योः सचा॑ ।
घ॒र्मो न वाज॑जठ॒रोऽद॑ब्धः॒ शश्व॑तो॒ दभः॑ ॥४॥
क्रीळ॑न् नो रश्म॒ आ भु॑वः॒ सं भस्म॑ना वा॒युना॒ वेवि॑दानः ।
ता अ॑स्य सन् धृ॒षजो॒ न ति॒ग्माः सुसं॑शिता व॒क्ष्यो॑ वक्षणे॒स्थाः ॥५॥
Previous
सूक्त १८
Next
सूक्त २०