सूक्त ५२
ऋग्वेदः / संहिता / शाकल / मण्डल ४ / सूक्त ५२
Script
Translation
Previous
सूक्त ५१
Next
सूक्त ५३
७ वामदेवो गौतमः । उषाः । गायत्री ।
प्रति॒ ष्या सू॒नरी॒ जनी॑ व्यु॒च्छन्ती॒ परि॒ स्वसुः॑ ।
दि॒वो अ॑दर्शि दुहि॒ता ॥१॥
अश्वे॑व चि॒त्रारु॑षी मा॒ता गवा॑मृ॒ताव॑री ।
सखा॑भूद॒श्विनो॑रु॒षाः ॥२॥
उ॒त सखा॑स्य॒श्विनो॑रु॒त मा॒ता गवा॑मसि ।
उ॒तोषो॒ वस्व॑ ईशिषे ॥३॥
या॒व॒यद्द्वे॑षसं त्वा चिकि॒त्वित् सू॑नृतावरि ।
प्रति॒ स्तोमै॑रभुत्स्महि ॥४॥
प्रति॑ भ॒द्रा अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मयः॑ ।
ओषा अ॑प्रा उ॒रु ज्रयः॑ ॥५॥
आ॒प॒प्रुषी॑ विभावरि॒ व्या॑व॒र्ज्योति॑षा॒ तमः॑ ।
उषो॒ अनु॑ स्व॒धाम॑व ॥६॥
आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम् ।
उषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥७॥
Previous
सूक्त ५१
Next
सूक्त ५३