सूक्त ४९
ऋग्वेदः / संहिता / शाकल / मण्डल ४ / सूक्त ४९
Script
Translation
Previous
सूक्त ४८
Next
सूक्त ५०
६ वामदेवो गौतमः । इन्द्राबृहस्पती । गायत्री ।
इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती ।
उ॒क्थं मद॑श्च शस्यते ॥१॥
अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती ।
चारु॒र्मदा॑य पी॒तये॑ ॥२॥
आ न॑ इन्द्राबृहस्पती गृ॒हमिन्द्र॑श्च गच्छतम् ।
सो॒म॒पा सोम॑पीतये ॥३॥
अ॒स्मे इ॑न्द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विन॑म् ।
अश्वा॑वन्तं सह॒स्रिण॑म् ॥४॥
इन्द्रा॒बृह॒स्पती॑ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥५॥
सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो॑ गृ॒हे ।
मा॒दये॑थां॒ तदो॑कसा ॥६॥
Previous
सूक्त ४८
Next
सूक्त ५०