सूक्त ४६
ऋग्वेदः / संहिता / शाकल / मण्डल ४ / सूक्त ४६
Script
Translation
Previous
सूक्त ४५
Next
सूक्त ४७
७ वामदेवो गौतमः । इन्द्रवायू, १ वायुः । गायत्री ।
अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु ।
त्वं हि पू॑र्व॒पा असि॑ ॥१॥
श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इन्द्र॑सारथिः ।
वायो॑ सु॒तस्य॑ तृम्पतम् ॥२॥
आ वां॑ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू अ॒भि प्रयः॑ ।
वह॑न्तु॒ सोम॑पीतये ॥३॥
रथं॒ हिर॑ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् ।
आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥४॥
रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् ।
इन्द्र॑वायू इ॒हा ग॑तम् ॥५॥
इन्द्र॑वायू अ॒यं सु॒तस्तं दे॒वेभिः॑ स॒जोष॑सा ।
पिब॑तं दा॒शुषो॑ गृ॒हे ॥६॥
इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् ।
इ॒ह वां॒ सोम॑पीतये ॥७॥
Previous
सूक्त ४५
Next
सूक्त ४७