सूक्त ४३
ऋग्वेदः / संहिता / शाकल / मण्डल ४ / सूक्त ४३
Script
Translation
Previous
सूक्त ४२
Next
सूक्त ४४
७ पुरुमीळहाजमीळहौ सौहोत्रौ । अश्विनौ । त्रिष्टुप् ।
क उ॑ श्रवत्कत॒मो य॒ज्ञिया॑नां व॒न्दारु॑ दे॒वः क॑त॒मो जु॑षाते ।
कस्ये॒मां दे॒वीम॒मृते॑षु॒ प्रेष्ठां॑ हृ॒दि श्रे॑षाम सुष्टु॒तिं सु॑ह॒व्याम् ॥१॥
को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना॑मु कत॒मः शम्भ॑विष्ठः ।
रथं॒ कमा॑हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ॥२॥
म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिन्द्रो॒ न श॒क्तिं परि॑तक्म्यायाम् ।
दि॒व आजा॑ता दि॒व्या सु॑प॒र्णा कया॒ शची॑नां भवथः॒ शचि॑ष्ठा ॥३॥
का वां॑ भू॒दुप॑मातिः॒ कया॑ न॒ आश्वि॑ना गमथो हू॒यमा॑ना ।
को वां॑ म॒हश्चि॒त् त्यज॑सो अ॒भीक॑ उरु॒ष्यतं॑ माध्वी दस्रा न ऊ॒ती ॥४॥
उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत् स॑मु॒द्राद॒भि वर्त॑ते वाम् ।
मध्वा॑ माध्वी॒ मधु॑ वां प्रुषाय॒न् यत् सीं॑ वां॒ पृक्षो॑ भु॒रज॑न्त प॒क्वाः ॥५॥
सिन्धु॑र्ह वां र॒सया॑ सिञ्च॒दश्वा॑न् घृ॒णा वयो॑ऽरु॒षासः॒ परि॑ ग्मन् ।
तदू॒ षु वा॑मजि॒रं चे॑ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः॑ ॥६॥
इ॒हेह॒ यद् वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना ।
उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥७॥
Previous
सूक्त ४२
Next
सूक्त ४४