सूक्त १९

ऋग्वेदः / संहिता / शाकल / मण्डल ४ / सूक्त १९

Back to Veda

Script

Translation

११ वामदेवो गौतमः । इन्द्रः । त्रिष्टुप् ।
ए॒वा त्वामि॑न्द्र वज्रि॒न्नत्र॒ विश्वे॑ दे॒वासः॑ सु॒हवा॑स॒ ऊमाः॑ । म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद् वृ॑णते वृत्र॒हत्ये॑ ॥१॥
अवा॑सृजन्त॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळि॑न्द्र स॒त्ययो॑निः । अह॒न्नहिं॑ परि॒शया॑न॒मर्णः॒ प्र व॑र्त॒नीर॑रदो वि॒श्वधे॑नाः ॥२॥
अतृ॑प्णुवन्तं॒ विय॑तमबु॒ध्यमबु॑ध्यमानं सुषुपा॒णमि॑न्द्र । स॒प्त प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण॒ वि रि॑णा अप॒र्वन् ॥३॥
अक्षो॑दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिन्द्रः॑ । दृ॒ळहान्यौ॑भ्नादु॒शमा॑न॒ ओजोऽवा॑भिनत् क॒कुभः॒ पर्व॑तानाम् ॥४॥
अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा॑ इव॒ प्र य॑युः सा॒कमद्र॑यः । अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मीन् त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ॥५॥
त्वं म॒हीम॒वनिं॑ वि॒श्वधे॑नां तु॒र्वीत॑ये व॒य्या॑य॒ क्षर॑न्तीम् । अर॑मयो॒ नम॒सैज॒दर्णः॑ सुतर॒णाँ अ॑कृणोरिन्द्र॒ सिन्धू॑न् ॥६॥
प्राग्रुवो॑ नभ॒न्वो॒३ न वक्वा॑ ध्व॒स्रा अ॑पिन्वद् युव॒तीर्ऋ॑त॒ज्ञाः । धन्वा॒न्यज्राँ॑ अपृणक् तृषा॒णाँ अधो॒गिन्द्रः॑ स्त॒र्यो॒३ दंसु॑पत्नीः ॥७॥
पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द् वि सिन्धू॑न् । परि॑ष्ठिता अतृणद् बद्बधा॒नाः सी॒रा इन्द्रः॒ स्रवि॑तवे पृथि॒व्या ॥८॥
व॒म्रीभिः॑ पु॒त्रम॒ग्रुवो॑ अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ । व्य१न्धो अ॑ख्य॒दहि॑माददा॒नो निर्भू॑दुख॒च्छित्सम॑रन्त॒ पर्व॑ ॥९॥
प्र ते॒ पूर्वा॑णि॒ कर॑णानि विप्राऽऽवि॒द्वाँ आ॑ह वि॒दुषे॒ करां॑सि । यथा॑यथा॒ वृष्ण्या॑नि॒ स्वगू॒र्ता ऽपां॑सि राज॒न् नर्यावि॑वेषीः ॥१०॥
नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११॥