सूक्त १२

ऋग्वेदः / संहिता / शाकल / मण्डल ४ / सूक्त १२

Back to Veda

Script

Translation

६ वामदेवो गौतमः । अग्निः ।त्रिष्टुप् ।
यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क् त्रिस्ते॒ अन्नं॑ कृ॒णव॒त् सस्मि॒न्नह॑न् । स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त् तव॒ क्रत्वा॑ जातवेदश्चिकि॒त्वान् ॥१॥
इ॒ध्मं यस्ते॑ ज॒भर॑च्छश्रमा॒णो म॒हो अ॑ग्ने॒ अनी॑क॒मा स॑प॒र्यन् । स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य॑न् र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ॥२॥
अ॒ग्निरी॑शे बृह॒तः क्ष॒त्रिय॑स्या॒ऽग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः । दधा॑ति॒ रत्नं॑ विध॒ते यवि॑ष्ठो॒ व्या॑नु॒षङ्मर्त्या॑य स्व॒धावा॑न् ॥३॥
यच्चि॒द्धि ते॑ पुरुष॒त्रा य॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒मा कच्चि॒दागः॑ । कृ॒धी ष्व१स्माँ अदि॑ते॒रना॑गा॒न् व्येनां॑सि शिश्रथो॒ विष्व॑गग्ने ॥४॥
म॒हश्चि॑दग्न॒ एन॑सो अ॒भीक॑ ऊ॒र्वाद् देवाना॑मु॒त मर्त्या॑नाम् । मा ते॒ सखा॑यः॒ सद॒मिद् रि॑षाम॒ यच्छा॑ तो॒काय॒ तन॑याय॒ शं योः ॥५॥
यथा॑ ह॒ त्यद् व॑सवो गौ॒र्यं॑ चित् प॒दि षि॒ताममु॑ञ्चता यजत्राः । ए॒वो ष्व१स्मन्मु॑ञ्चता॒ व्यंहः॒ प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥६॥