सूक्त १३
ऋग्वेदः / संहिता / शाकल / मण्डल ३ / सूक्त १३
Script
Translation
Previous
सूक्त १२
Next
सूक्त १४
७ ऋषभो वैश्वामित्रः । अग्निः । अनुष्टुप् ।
प्र वो॑ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै ।
गम॑द् दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ॥१॥
ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सच॑न्त ऊ॒तयः॑ ।
ह॒विष्म॑न्त॒स्तमी॑ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ॥२॥
स य॒न्ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः ।
अ॒ग्निं तं वो॑ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ॥३॥
स नः॒ शर्मा॑णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा ।
यतो॑ नः प्रु॒ष्णव॒द् वसु॑ दि॒वि क्षि॒तिभ्यो॑ अ॒प्स्वा ॥४॥
दी॒दि॒वांस॒मपू॑र्व्यं॒ वस्वी॑भिरस्य धी॒तिभिः॑ ।
ऋक्वा॑णो अ॒ग्निमि॑न्धते॒ होता॑रं वि॒श्पतिं॑ वि॒शाम् ॥५॥
उ॒त नो॒ ब्रह्म॑न्नविष उ॒क्थेषु॑ देव॒हूत॑मः ।
शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने॑ सहस्र॒सात॑मः ॥६॥
॥ नू नो॑ रास्व स॒हस्र॑वत् तो॒कव॑त्पुष्टि॒मद् वसु॑ ।
द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितम् ॥७॥
॥
Previous
सूक्त १२
Next
सूक्त १४