सूक्त ७

ऋग्वेदः / संहिता / शाकल / मण्डल २ / सूक्त ७

Back to Veda

Script

Translation

६ सोमाहुतिर्भार्गवः । अग्निः । गायत्री ।
श्रेष्ठं॑ यविष्ठ भार॒ताऽग्ने॑ द्यु॒मन्त॒मा भ॑र । वसो॑ पुरु॒स्पृहं॑ र॒यिम् ॥१॥
मा नो॒ अरा॑तिरीशत दे॒वस्य॒ मर्त्य॑स्य च । पर्षि॒ तस्या॑ उ॒त द्वि॒षः ॥२॥
विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव । अति॑ गाहेमहि॒ द्विषः॑ ॥३॥
शुचिः॑ पावक॒ वन्द्यो ऽग्ने॑ बृ॒हद् वि रो॑चसे । त्वं घृ॒तेभि॒राहु॑तः ॥४॥
त्वं नो॑ असि भार॒ताऽग्ने॑ व॒शाभि॑रु॒क्षभिः॑ । अ॒ष्टाप॑दीभि॒राहु॑तः ॥५॥
द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः । सह॑सस्पु॒त्रो अद्भु॑तः ॥६॥