सूक्त ५
ऋग्वेदः / संहिता / शाकल / मण्डल २ / सूक्त ५
Script
Translation
Previous
सूक्त ४
Next
सूक्त ६
८ सोमाहुतिर्भार्गवः । अग्निः । अनुष्टुप् ।
होता॑जनिष्ट॒ चेत॑नः पि॒ता पि॒तृभ्य॑ ऊ॒तये॑ ।
प्र॒यक्ष॒ञ्जेन्यं॒ वसु॑ श॒केम॑ वा॒जिनो॒ यम॑म् ॥१॥
आ यस्मि॑न् त्स॒प्त र॒श्मय॑स्त॒ता य॒ज्ञस्य॑ ने॒तरि॑ ।
म॒नु॒ष्वद् दैव्य॑मष्ट॒मं पोता॒ विश्वं॒ तदि॑न्वति ॥२॥
द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द् ब्रह्मा॑णि॒ वेरु॒ तत् ।
परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत् ॥३॥
सा॒कं हि शुचि॑ना॒ शुचिः॑ प्रशा॒स्ता क्रतु॒नाज॑नि ।
वि॒द्वाँ अ॑स्य व्र॒ता ध्रु॒वा व॒या इ॒वानु॑ रोहते ॥४॥
ता अ॑स्य॒ वर्ण॑मा॒युवो॒ नेष्टुः॑ सचन्त धे॒नवः॑ ।
कु॒वित् ति॒सृभ्य॒ आ वरं॒ स्वसा॑रो॒ या इ॒दं य॒युः ॥५॥
यदी॑ मा॒तुरुप॒ स्वसा॑ घृ॒तं भर॒न्त्यस्थि॑त ।
तासा॑मध्व॒र्युराग॑तौ॒ यवो॑ वृ॒ष्टीव॑ मोदते ॥६॥
स्वः स्वाय॒ धाय॑से कृणु॒तामृ॒त्विगृ॒त्विज॑म् ।
स्तोमं॑ य॒ज्ञं चादरं॑ व॒नेमा॑ ररि॒मा व॒यम् ॥७॥
यथा॑ वि॒द्वाँ अरं॒ कर॒द् विश्वे॑भ्यो यज॒तेभ्यः॑ ।
अ॒यम॑ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यम् ॥८॥
Previous
सूक्त ४
Next
सूक्त ६