सूक्त २५
ऋग्वेदः / संहिता / शाकल / मण्डल २ / सूक्त २५
Script
Translation
Previous
सूक्त २४
Next
सूक्त २६
५ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः । ब्रह्मणस्पतिः । जगती ।
इन्धा॑नो अ॒ग्निं व॑नवद् वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद् रा॒तह॑व्य॒ इत् ।
जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥१॥
वी॒रेभि॑र्वी॒रान् व॑नवद् वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द् बोध॑ति॒ त्मना॑ ।
तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥२॥
सिन्धु॒र्न क्षोदः॒ शिमी॑वाँ ऋघाय॒तो वृषे॑व॒ वध्रीँ॑र॒भि व॒ष्ट्योज॑सा ।
अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥३॥
तस्मा॑ अर्षन्ति दि॒व्या अ॑स॒श्चतः॒ स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति ।
अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥४॥
तस्मा॒ इद् विश्वे॑ धुनयन्त॒ सिन्ध॒वो ऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ ।
दे॒वानां॑ सु॒म्ने सु॒भगः॒ स ए॑धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥५॥
Previous
सूक्त २४
Next
सूक्त २६