सूक्त ३३
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त ३३
Script
Translation
Previous
सूक्त ३२
Next
सूक्त ३४
९कवष ऐलूषः । १ विश्वेदेवाः, २-३ इन्द्रः, ४-५ कुरुश्रवणस्त्रासदस्यवः, ६-९ उपमश्रवा मैत्रातिथिः । १ त्रिष्टुप् , प्रगाथः = ( २ बृहती, ३ सतोबृहती ),४-९ गायत्री ।
प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मन्त॑रेण ।
विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षन्दुः॒शासु॒रागा॒दिति॒ घोष॑ आसीत् ॥१॥
सं मा॑ तपन्त्य॒भितः॑ स॒पत्नी॑रिव॒ पर्श॑वः ।
नि बा॑धते॒ अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे॑वीयते म॒तिः ॥२॥
मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्य॑ स्तो॒तारं॑ ते शतक्रतो ।
स॒कृत्सु नो॑ मघवन्निन्द्र मृळ॒याऽधा॑ पि॒तेव॑ नो भव ॥३॥
कु॒रु॒श्रव॑णमावृणि॒ राजा॑नं॒ त्रास॑दस्यवम् ।
मंहि॑ष्ठं वा॒घता॒मृषिः॑ ॥४॥
यस्य॑ मा ह॒रितो॒ रथे॑ ति॒स्रो वह॑न्ति साधु॒या ।
स्तवै॑ स॒हस्र॑दक्षिणे ॥५॥
यस्य॒ प्रस्वा॑दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः ।
क्षेत्रं॒ न र॒ण्वमू॒चुषे॑ ॥६॥
अधि॑ पुत्रोपमश्रवो॒ नपा॑न्मित्रातिथेरिहि ।
पि॒तुष्टे॑ अस्मि वन्दि॒ता ॥७॥
यदीशी॑या॒मृता॑नामु॒त वा॒ मर्त्या॑नाम् ।
जीवे॒दिन्म॒घवा॒ मम॑ ॥८॥
न दे॒वाना॒मति॑ व्र॒तं श॒तात्मा॑ च॒न जी॑वति ।
तथा॑ यु॒जा वि वा॑वृते ॥९॥
Previous
सूक्त ३२
Next
सूक्त ३४