सूक्त २४
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त २४
Script
Translation
Previous
सूक्त २३
Next
सूक्त २५
६ ऐन्द्रो विमदः, प्राजापत्यो वा, वासुक्रो वसुकृद्वा । इन्द्रः । ४-६ अश्विनौ । आस्तारपंक्तिः, ४-६ अनुष्टुप् ।
इन्द्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मन्तं च॒मू सु॒तम् ।
अ॒स्मे र॒यिं नि धा॑रय॒ वि वो॒ मदे॑ सह॒स्रिणं॑ पुरूवसो॒ विव॑क्षसे ॥१॥
त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे ।
शची॑पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं॑ नो धेहि॒ वार्यं॒ विव॑क्षसे ॥२॥
यस्पति॒र्वार्या॑णा॒मसि॑ र॒ध्रस्य॑ चोदि॒ता ।
इन्द्र॑ स्तोतॄ॒णाम॑वि॒ता वि वो॒ मदे॑ द्वि॒षो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥३॥
यु॒वं श॑क्रा माया॒विना॑ समी॒ची निर॑मन्थतम् ।
वि॒म॒देन॒ यदी॑ळि॒ता नास॑त्या नि॒रम॑न्थतम् ॥४॥
विश्वे॑ दे॒वा अ॑कृपन्त समी॒च्योर्नि॒ष्पत॑न्त्योः ।
नास॑त्यावब्रुवन्दे॒वाः पुन॒रा व॑हता॒दिति॑ ॥५॥
मधु॑मन्मे प॒राय॑णं॒ मधु॑म॒त्पुन॒राय॑नम् ।
ता नो॑ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतम् ॥६॥
Previous
सूक्त २३
Next
सूक्त २५