सूक्त २०
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त २०
Script
Translation
Previous
सूक्त १९
Next
सूक्त २१
१० ऐन्द्रो विमदः प्राजापत्यो वा, वासुक्रो वसुकृद्वा । अग्निः । गायत्री, १ एकपदा विराट् (एष मन्त्रः शान्त्यर्थः) २अनुष्टुप्,९ विराट् १० त्रिष्टुप् ।
भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥१॥
अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुम् ।
यस्य॒ धर्म॒न्त्स्व१रेनीः॑ सप॒र्यन्ति॑ मा॒तुरूधः॑ ॥२॥
यमा॒सा कृ॒पनी॑ळं भा॒साके॑तुं व॒र्धय॑न्ति ।
भ्राज॑ते॒ श्रेणि॑दन् ॥३॥
अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अन्ता॑न् ।
क॒विर॒भ्रं दीद्या॑नः ॥४॥
जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे ।
मि॒न्वन्त्सद्म॑ पु॒र ए॑ति ॥५॥
स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति ।
अ॒ग्निं दे॒वा वाशी॑मन्तम् ॥६॥
य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य ।
अद्रेः॑ सू॒नुमा॒युमा॑हुः ॥७॥
नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ ।
अ॒ग्निं ह॒विषा॒ वर्ध॑न्तः ॥८॥
कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् ।
हिर॑ण्यरूपं॒ जनि॑ता जजान ॥९॥
ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषाः॑ ।
गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥१०॥
Previous
सूक्त १९
Next
सूक्त २१