सूक्त १८१
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १८१
Script
Translation
Previous
सूक्त १८०
Next
सूक्त १८२
३ क्रमेण- प्रथो वासिष्ठः, सप्रथो भारद्वाजः, धर्मः सौर्यः । विश्वेदेवाः । त्रिष्टुप् ।
प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामाऽऽनु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् ।
धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ॥१॥
अवि॑न्द॒न्ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् ।
धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥२॥
ते॑ऽविन्द॒न्मन॑सा॒ दीध्या॑ना॒ यजुः॑ ष्क॒न्नं प्र॑थ॒मं दे॑व॒यान॑म् ।
धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥३॥
Previous
सूक्त १८०
Next
सूक्त १८२