सूक्त १६६
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १६६
Script
Translation
Previous
सूक्त १६५
Next
सूक्त १६७
५ ऋषभो वैराजः, ऋषभः शाक्वरो वा । सपत्न्घ्नम् । अनुष्टुप् , ५ महापंक्तिः ।
ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिम् ।
ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् ॥१॥
अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः ।
अ॒धः स॒पत्ना॑ मे प॒दोरि॒मे सर्वे॑ अ॒भिष्ठि॑ताः ॥२॥
अत्रै॒व वोऽपि॑ नह्याम्यु॒भे आर्त्नी॑ इव॒ ज्यया॑ ।
वाच॑स्पते॒ नि षे॑धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ॥३॥
अ॒भि॒भूर॒हमाग॑मं वि॒श्वक॑र्मेण॒ धाम्ना॑ ।
आ व॑श्चि॒त्तमा वो॑ व्र॒तमा वो॒ऽहं समि॑तिं ददे ॥४॥
यो॒ग॒क्षे॒मं व॑ आ॒दाया॒ऽहं भू॑यासमुत्त॒म आ वो॑ मू॒र्धान॑मक्रमीम् ।
अ॒ध॒स्प॒दान्म॒ उद्व॑दत म॒ण्डूका॑ इवोद॒कान्म॒ण्डूका॑ उद॒कादि॑व ॥५॥
Previous
सूक्त १६५
Next
सूक्त १६७