सूक्त १६४
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १६४
Script
Translation
Previous
सूक्त १६३
Next
सूक्त १६५
५ प्रचेता आंगिरसः । दुःस्वप्ननाशनम् । अनुष्टुप् , ३ त्रिष्टुप्, ५ पंक्तिः ।
अपे॑हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र ।
प॒रो निॠ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ॥१॥
भ॒द्रं वै वरं॑ वृणते भ॒द्रं यु॑ञ्जन्ति॒ दक्षि॑णम् ।
भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मनः॑ ॥२॥
यदा॒शसा॑ निः॒शसा॑भि॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑ ।
अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥३॥
यदि॑न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा॑मसि ।
प्रचे॑ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥४॥
अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् ।
जा॒ग्र॒त्स्व॒प्नः सं॑क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ॥५॥
Previous
सूक्त १६३
Next
सूक्त १६५