सूक्त १५३
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १५३
Script
Translation
Previous
सूक्त १५२
Next
सूक्त १५४
५ देवजामय इन्द्रमातरः । इन्द्रः । गायत्री ।
ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते ।
भे॒जा॒नासः॑ सु॒वीर्य॑म् ॥१॥
त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः ।
त्वं वृ॑ष॒न्वृषेद॑सि ॥२॥
त्वमि॑न्द्रासि वृत्र॒हा व्य१न्तरि॑क्षमतिरः ।
उद्द्याम॑स्तभ्ना॒ ओज॑सा ॥३॥
त्वमि॑न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः ।
वज्रं॒ शिशा॑न॒ ओज॑सा ॥४॥
त्वमि॑न्द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा ।
स विश्वा॒ भुव॒ आभ॑वः ॥५॥
Previous
सूक्त १५२
Next
सूक्त १५४