सूक्त ११८
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त ११८
Script
Translation
Previous
सूक्त ११७
Next
सूक्त ११९
९ उरुक्षय आमहीयवः । रक्षोहाऽग्निः । गायत्री ।
अग्ने॒ हंसि॒ न्य१त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा ।
स्वे क्षये॑ शुचिव्रत ॥१॥
उत्ति॑ष्ठसि॒ स्वा॑हुतो घृ॒तानि॒ प्रति॑ मोदसे ।
यत्त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ॥२॥
स आहु॑तो॒ वि रो॑चते॒ऽग्निरी॒ळेन्यो॑ गि॒रा ।
स्रु॒चा प्रती॑कमज्यते ॥३॥
घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः ।
रोच॑मानो वि॒भाव॑सुः ॥४॥
जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।
तं त्वा॑ हवन्त॒ मर्त्याः॑ ॥५॥
तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत ।
अदा॑भ्यं गृ॒हप॑तिम् ॥६॥
अदा॑भ्येन शो॒चिषाऽग्ने॒ रक्ष॒स्त्वं द॑ह ।
गो॒पा ऋ॒तस्य॑ दीदिहि ॥७॥
स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ ।
उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥८॥
तं त्वा॑ गी॒र्भिरु॑रु॒क्षया॑ हव्य॒वाहं॒ समी॑धिरे ।
यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥९॥
Previous
सूक्त ११७
Next
सूक्त ११९