सूक्त १०५
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १०५
Script
Translation
Previous
सूक्त १०४
Next
सूक्त १०६
११ कौत्सो दुर्मित्रः सुमित्रो वा । इन्द्रः । उष्णिक्, १ गायत्री वा २,७ पिपीलिकमध्या, ११ त्रिष्टुप् ।
क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः ।
दी॒र्घं सु॒तं वा॒ताप्या॑य ॥१॥
हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्व॒न्तानु॒ शेपा॑ ।
उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ॥२॥
अप॒ योरिन्द्रः॒ पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् ।
शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ॥३॥
सचा॒योरिन्द्र॒श्चर्कृ॑ष॒ आँ उ॑पान॒सः स॑प॒र्यन् ।
न॒दयो॒र्विव्र॑तयोः॒ शूर॒ इन्द्रः॑ ॥४॥
अधि॒ यस्त॒स्थौ केश॑वन्ता॒ व्यच॑स्वन्ता॒ न पु॒ष्ट्यै ।
व॒नोति॒ शिप्रा॑भ्यां शि॒प्रिणी॑वान् ॥५॥
प्रास्तौ॑दृ॒ष्वौजा॑ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूरः॒ शव॑सा ।
ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा॑ ॥६॥
वज्रं॒ यश्च॒क्रे सु॒हना॑य॒ दस्य॑वे हिरीम॒शो हिरी॑मान् ।
अरु॑तहनु॒रद्भु॑तं॒ न रजः॑ ॥७॥
अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृचः॑ ।
नाब्र॑ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ॥८॥
ऊ॒र्ध्वा यत्ते॑ त्रे॒तिनी॒ भूद्य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् ।
स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः ॥९॥
श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः ।
यया॒ स्वे पात्रे॑ सि॒ञ्चस॒ उत् ॥१०॥
श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् ।
आवो॒ यद्द॑स्यु॒हत्ये॑ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये॑ कुत्सव॒त्सम् ॥११॥
Previous
सूक्त १०४
Next
सूक्त १०६