सूक्त ९८
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त ९८
Script
Translation
Previous
सूक्त ९७
Next
सूक्त ९९
३ कुत्स आङ्गिरसः । अग्निः, वैश्वानरोऽग्निर्वा । त्रिष्टुप् ।
वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः ।
इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥१॥
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश ।
वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥२॥
वैश्वा॑नर॒ तव॒ तत् स॒त्यम॑स्त्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥३॥
Previous
सूक्त ९७
Next
सूक्त ९९