सूक्त ९०
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त ९०
Script
Translation
Previous
सूक्त ८९
Next
सूक्त ९१
९ गोतमो राहूगणः । विश्वेदेवाः, । गायत्री, ९ अनुष्टुप् ।
ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् ।
अ॒र्य॒मा दे॒वैः स॒जोषाः॑ ॥१॥
ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः ।
व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥२॥
ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः ।
बाध॑माना॒ अप॒ द्विषः॑ ॥३॥
वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुतः॑ ।
पू॒षा भगो॒ वन्द्या॑सः ॥४॥
उ॒त नो॒ धियो॒ गोअ॑ग्राः॒ पूष॒न् विष्ण॒वेव॑यावः ।
कर्ता॑ नः स्वस्ति॒मतः॑ ॥५॥
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः ॥६॥
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त् पार्थि॑वं॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥७॥
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ॥८॥
शं नो॑ मि॒त्रः शं वरु॑णः॒ शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ॥९॥
Previous
सूक्त ८९
Next
सूक्त ९१