सूक्त ८
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त ८
Script
Translation
Previous
सूक्त ७
Next
सूक्त ९
१० मधुच्छन्दा वैश्वामित्रः । इन्द्रः । गायत्री ।
एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒सह॑म् ।
वर्षि॑ष्ठमू॒तये॑ भर ॥१॥
नि येन॑ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा॑महै ।
त्वोता॑सो॒ न्यर्व॑ता ॥२॥
इन्द्र॒ त्वोता॑स॒ आ व॒यं वज्रं॑ घ॒ना द॑दीमहि ।
जये॑म॒ सं यु॒धि स्पृधः॑ ॥३॥
व॒यं शूरे॑भि॒रस्तृ॑भि॒रिन्द्र॒ त्वया॑ यु॒जा व॒यम् ।
सा॒स॒ह्याम॑ पृतन्य॒तः ॥४॥
म॒हाँ इन्द्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑ ।
द्यौर्न प्र॑थि॒ना शवः॑ ॥५॥
स॒मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ ।
विप्रा॑सो वा धिया॒यवः॑ ॥६॥
यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते ।
उ॒र्वीरापो॒ न का॒कुदः॑ ॥७॥
ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही ।
प॒क्वा शाखा॒ न दा॒शुषे॑ ॥८॥
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते ।
स॒द्यश्चि॒त् सन्ति॑ दा॒शुषे॑ ॥९॥
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ ।
इन्द्रा॑य॒ सोम॑पीतये ॥१०॥
Previous
सूक्त ७
Next
सूक्त ९