सूक्त ७८
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त ७८
Script
Translation
Previous
सूक्त ७७
Next
सूक्त ७९
५ गोतमो राहूगणः । अग्निः । गायत्री ।
अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥१॥
तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का॑मो दुवस्यति ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥२॥
तमु॑ त्वा वाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥३॥
तमु॑ त्वा वृत्र॒हन्त॑मं॒ यो दस्यूँ॑रवधूनु॒षे ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥४॥
अवो॑चाम॒ रहू॑गणा अ॒ग्नये॒ मधु॑म॒द् वचः॑ ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥५॥
Previous
सूक्त ७७
Next
सूक्त ७९