सूक्त ६७
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त ६७
Script
Translation
Previous
सूक्त ६६
Next
सूक्त ६८
१० पराशरः शाक्त्यः । अग्निः । द्विपदा विराट् ।
वने॑षु जा॒युर्मर्ते॑षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं, राजे॑वाजु॒र्यम् १ क्षेमो॒ न सा॒धुः, क्रतु॒र्न भ॒द्रो भुव॑त्स्वा॒धी, र्होता॑ हव्य॒वाट् ॥१॥
२ हस्ते॒ दधा॑नो, नृ॒म्णा विश्वा॒न्यमे॑ दे॒वान् धा॒द् गुहा॑ नि॒षीद॑न् ३ वि॒दन्ती॒मत्र॒, नरो॑ धियं॒धा हृ॒दा यत् त॒ष्टान् मन्त्राँ॒ अशं॑सन् ॥२॥
४ अ॒जो न क्षां, दा॒धार॑ पृथि॒वीं त॒स्तम्भ॒ द्यां मन्त्रे॑भिः स॒त्यैः ५ प्रि॒या प॒दानि॑, प॒श्वो नि पा॑हि वि॒श्वायु॑रग्ने, गु॒हा गुहं॑ गाः ॥३॥
६ य ईं॑ चि॒केत॒, गुहा॒ भव॑न्त॒मा यः स॒साद॒ धारा॑मृ॒तस्य॑ ७ वि ये चृ॒तन्त्यृ॒ता सप॑न्त॒ आदिद् वसू॑नि॒ प्र व॑वाचास्मै ॥४॥
८ वि यो वी॒रुत्सु॒, रोध॑न्महि॒त्वोत प्र॒जा, उ॒त प्र॒सूष्व॒न्तः ९ चित्ति॑र॒पां, दमे॑ वि॒श्वायुः॒ सद्मे॑व॒ धीराः॑, सं॒माय॑ चक्रुः ॥५॥
१०
Previous
सूक्त ६६
Next
सूक्त ६८