सूक्त ४५
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त ४५
Script
Translation
Previous
सूक्त ४४
Next
सूक्त ४६
१० प्रस्कण्वः काण्वः । अग्निः, १० (उत्तरार्धस्य) देवाः । अनुष्टुप् ।
त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त ।
यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष॑म् ॥१॥
श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः ।
तान् रो॑हिदश्व गिर्वण॒स् त्रय॑स्त्रिंशत॒मा व॑ह ॥२॥
प्रि॒य॒मे॒ध॒वद॑त्रि॒वज् जात॑वेदो विरूप॒वत् ।
अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हव॑म् ॥३॥
महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत ।
राज॑न्तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑ ॥४॥
घृता॑हवन सन्त्ये॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ।
याभिः॒ कण्व॑स्य सू॒नवो॒ हव॒न्तेऽव॑से त्वा ॥५॥
त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तवः॑ ।
शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोह्ळ॑वे ॥६॥
नि त्वा॒ होता॑रमृ॒त्विजं॑ दधि॒रे व॑सु॒वित्त॑मम् ।
श्रुत्क॑र्णं स॒प्रथ॑स्तमं॒ विप्रा॑ अग्ने॒ दिवि॑ष्टिषु ॥७॥
आ त्वा॒ विप्रा॑ अचुच्यवुः सु॒तसो॑मा अ॒भि प्रयः॑ ।
बृ॒हद् भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता॑य दा॒शुषे॑ ॥८॥
प्रा॒त॒र्याव्णः॑ सहस्कृत सोम॒पेया॑य सन्त्य ।
इ॒हाद्य दैव्यं॒ जनं॑ ब॒र्हिरा सा॑दया वसो ॥९॥
अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः ।
अ॒यं सोमः॑ सुदानव॒स् तं पा॑त ति॒रोअ॑ह्न्यम् ॥१०॥
Previous
सूक्त ४४
Next
सूक्त ४६