सूक्त ४३
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त ४३
Script
Translation
Previous
सूक्त ४२
Next
सूक्त ४४
९ कण्वो घौरः । रुद्रः, मित्रावरुणौ च, ७-९ सोमः । गायत्री, ९ अनुष्टप् ।
कद् रु॒द्राय॒ प्रचे॑तसे मी॒ह्ळुष्ट॑माय॒ तव्य॑से ।
वो॒चेम॒ शंत॑मं हृ॒दे ॥१॥
यथा॑ नो॒ अदि॑तिः॒ कर॒त् पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ ।
यथा॑ तो॒काय॑ रु॒द्रिय॑म् ॥२॥
यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति ।
यथा॒ विश्वे॑ स॒जोष॑सः ॥३॥
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजम् ।
तच्छं॒योः सु॒म्नमी॑महे ॥४॥
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते ।
श्रेष्ठो॑ दे॒वानां॒ वसुः॑ ॥५॥
शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ ।
नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥६॥
अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् ।
महि॒ श्रव॑स्तुविनृ॒म्णम् ॥७॥
मा नः॑ सोमपरि॒बाधो॒ मारा॑तयो जुहुरन्त ।
आ न॑ इन्दो॒ वाजे॑ भज ॥८॥
यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ ।
मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः ॥९॥
Previous
सूक्त ४२
Next
सूक्त ४४