सूक्त ४१
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त ४१
Script
Translation
Previous
सूक्त ४०
Next
सूक्त ४२
९ कण्वो घौरः । वरुणमित्रार्यमणः, ४-६ आदित्याः । गायत्री ।
यं रक्ष॑न्ति॒ प्रचे॑तसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
नू चि॒त्स द॑भ्यते॒ जनः॑ ॥१॥
यं बा॒हुते॑व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं॑ रि॒षः ।
अरि॑ष्टः॒ सर्व॑ एधते ॥२॥
वि दु॒र्गा वि द्विषः॑ पु॒रो घ्नन्ति॒ राजा॑न एषाम् ।
नय॑न्ति दुरि॒ता ति॒रः ॥३॥
सु॒गः पन्था॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते ।
नात्रा॑वखा॒दो अ॑स्ति वः ॥४॥
यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था ।
प्र वः॒ स धी॒तये॑ नशत् ॥५॥
स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ ।
अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥६॥
क॒था रा॑धाम सखायः॒ स्तोमं॑ मि॒त्रस्या॑र्य॒म्णः ।
महि॒ प्सरो॒ वरु॑णस्य ॥७॥
मा वो॒ घ्नन्तं॒ मा शप॑न्तं॒ प्रति॑ वोचे देव॒यन्त॑म् ।
सु॒म्नैरिद् व॒ आ वि॑वासे ॥८॥
च॒तुर॑श्चि॒द् दद॑मानाद् बिभी॒यादा निधा॑तोः ।
न दु॑रु॒क्ताय॑ स्पृहयेत् ॥९॥
Previous
सूक्त ४०
Next
सूक्त ४२