सूक्त ४
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त ४
Script
Translation
Previous
सूक्त ३
Next
सूक्त ५
१० मधुच्छन्दा वैश्वामित्रः । इन्द्रः । गायत्री ।
सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ ।
जु॒हू॒मसि॒ द्यवि॑द्यवि ॥१॥
उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब ।
गो॒दा इद् रे॒वतो॒ मदः॑ ॥२॥
अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् ।
मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥३॥
परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म् ।
यस्ते॒ सखि॑भ्य॒ आ वर॑म् ॥४॥
उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत ।
दधा॑ना॒ इन्द्र॒ इद् दुवः॑ ॥५॥
उ॒त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑ ।
स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥६॥
एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम् ।
प॒त॒यन् म॑न्द॒यत्स॑खम् ॥७॥
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः ।
प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥८॥
तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो ।
धना॑नामिन्द्र सा॒तये॑ ॥९॥
यो रा॒यो॒३ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
तस्मा॒ इन्द्रा॑य गायत ॥१०॥
Previous
सूक्त ३
Next
सूक्त ५