सूक्त ३७
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त ३७
Script
Translation
Previous
सूक्त ३६
Next
सूक्त ३८
१५ कण्वो घौरः । मरुतः । गायत्री ।
क्री॒ळं वः॒ शर्धो॒ मारु॑तमन॒र्वाणं॑ रथे॒शुभ॑म् ।
कण्वा॑ अ॒भि प्र गा॑यत ॥१॥
ये पृष॑तीभिर्ऋ॒ष्टिभिः॑ सा॒कं वाशी॑भिर॒ञ्जिभिः॑ ।
अजा॑यन्त॒ स्वभा॑नवः ॥२॥
इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते॑षु॒ यद् वदा॑न् ।
नि याम॑ञ्चि॒त्रमृ॑ञ्जते ॥३॥
प्र वः॒ शर्धा॑य॒ घृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑ ।
दे॒वत्तं॒ ब्रह्म॑ गायत ॥४॥
प्र शं॑सा॒ गोष्वघ्न्यं॑ क्री॒ळं यच्छर्धो॒ मारु॑तम् ।
जम्भे॒ रस॑स्य वावृधे ॥५॥
को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः ।
यत्सी॒मन्तं॒ न धू॑नु॒थ ॥६॥
नि वो॒ यामा॑य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे॑ ।
जिही॑त॒ पर्व॑तो गि॒रिः ॥७॥
येषा॒मज्मे॑षु पृथि॒वी जु॑जु॒र्वाँ इ॑व वि॒श्पतिः॑ ।
भि॒या यामे॑षु॒ रेज॑ते ॥८॥
स्थि॒रं हि जान॑मेषां॒ वयो॑ मा॒तुर्निरे॑तवे ।
यत् सी॒मनु॑ द्वि॒ता शवः॑ ॥९॥
उदु॒ त्ये सू॒नवो॒ गिरः॒ काष्ठा॒ अज्मे॑ष्वत्नत ।
वा॒श्रा अ॑भि॒ज्ञु यात॑वे ॥१०॥
त्यं चि॑द् घा दी॒र्घं पृ॒थुं मि॒हो नपा॑त॒ममृ॑ध्रम् ।
प्र च्या॑वयन्ति॒ याम॑भिः ॥११॥
मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ॑ अचुच्यवीतन ।
गि॒रीँर॑चुच्यवीतन ॥१२॥
यद्ध॒ यान्ति॑ म॒रुतः॒ सं ह॑ ब्रुव॒तेऽध्व॒न्ना ।
शृ॒णोति॒ कश्चि॑देषाम् ॥१३॥
प्र या॑त॒ शीभ॑मा॒शुभिः॒ सन्ति॒ कण्वे॑षु वो॒ दुवः॑ ।
तत्रो॒ षु मा॑दयाध्वै ॥१४॥
अस्ति॒ हि ष्मा॒ मदा॑य वः॒ स्मसि॑ ष्मा व॒यमे॑षाम् ।
विश्वं॑ चि॒दायु॑र्जी॒वसे॑ ॥१५॥
Previous
सूक्त ३६
Next
सूक्त ३८