सूक्त ३५
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त ३५
Script
Translation
Previous
सूक्त ३४
Next
सूक्त ३६
११ हिरण्यस्तूप आङ्गिरसः । १ (पादानां क्रमेण) अग्निः, मित्रावरुणौ, रात्रिः, सविता च । २-११ सविता । त्रिष्टुप्, १, ९ जगती ।
ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से ।
ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥१॥
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽ दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥२॥
याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् ।
आ दे॒वो या॑ति सवि॒ता प॑रा॒वतो ऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥३॥
अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म् ।
आस्था॒द् रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥४॥
वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न् रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः ।
शश्व॒द् विशः॑ सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥ ५ ति॒स्रो द्यावः॑ सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् ।
आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥६॥
वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्ग गभी॒रवे॑पा॒ असु॑रः सुनी॒थः ।
क्वे॒३दानीं॒ सूर्यः॒ कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥७॥
अ॒ष्टौ व्य॑ख्यत् क॒कुभः॑ पृथि॒व्यास् त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् ।
हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द् दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥८॥
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते ।
अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥९॥
हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
अ॒प॒सेध॑न् र॒क्षसो॑ यातु॒धाना॒नस्था॑द् दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥१०॥
ये ते॒ पन्थाः॑ सवितः पू॒र्व्यासो॑ ऽरे॒णवः॒ सुकृ॑ता अ॒न्तरि॑क्षे ।
तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥११॥
Previous
सूक्त ३४
Next
सूक्त ३६