सूक्त १७५

ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त १७५

Back to Veda

Script

Translation

६ अगस्त्यो मैत्रावरुणिः । इन्द्रः । १ स्कंधोग्रीवी बृहती, २-५ अनुष्टुप्, ६ त्रिष्टुप् ।
मत्स्यपा॑यि ते॒ महः॒ पात्र॑स्येव हरिवो मत्स॒रो मदः॑ । वृषा॑ ते॒ वृष्ण॒ इन्दु॑र्वा॒जी स॑हस्र॒सात॑मः ॥१॥
आ न॑स्ते गन्तु मत्स॒रो वृषा॒ मदो॒ वरे॑ण्यः । स॒हावाँ॑ इन्द्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ॥२॥
त्वं हि शूरः॒ सनि॑ता चो॒दयो॒ मनु॑षो॒ रथ॑म् । स॒हावा॒न् दस्यु॑मव्र॒तमोषः॒ पात्रं॒ न शो॒चिषा॑ ॥३॥
मु॒षा॒य सूर्यं॑ कवे च॒क्रमीशा॑न॒ ओज॑सा । वह॒ शुष्णा॑य व॒धं कुत्सं॒ वात॒स्याश्वैः॑ ॥४॥
शु॒ष्मिन्त॑मो॒ हि ते॒ मदो॑ द्यु॒म्निन्त॑म उ॒त क्रतुः॑ । वृ॒त्र॒घ्ना व॑रिवो॒विदा॑ मंसी॒ष्ठा अ॑श्व॒सात॑मः ॥५॥
यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ । तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥६॥