सूक्त १५७

ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त १५७

Back to Veda

Script

Translation

६ दीर्घतमा औचथ्यः । अश्विनौ । जगती, ५-६ त्रिष्टुप् ।
अबो॑ध्य॒ग्निर्ज्म उदे॑ति॒ सूर्यो॒ व्यु १षाश्च॒न्द्रा म॒ह्या॑वो अ॒र्चिषा॑ । आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा॑वीद् दे॒वः स॑वि॒ता जग॒त् पृथ॑क् ॥१॥
यद् यु॒ञ्जाथे॒ वृष॑णमश्विना॒ रथं॑ घृ॒तेन॑ नो॒ मधु॑ना क्ष॒त्रमु॑क्षतम् । अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु जिन्वतं व॒यं धना॒ शूर॑साता भजेमहि ॥२॥
अ॒र्वाङ् त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो॑ जी॒राश्वो॑ अ॒श्विनो॑र्यातु॒ सुष्टु॑तः । त्रि॒व॒न्धु॒रो म॒घवा॑ वि॒श्वसौ॑भगः॒ शं न॒ आ व॑क्षद् द्वि॒पदे॒ चतु॑ष्पदे ॥३॥
आ न॒ ऊर्जं॑ वहतमश्विना यु॒वं मधु॑मत्या नः॒ कश॑या मिमिक्षतम् । प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥४॥
यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे॑षु॒ भुव॑नेष्व॒न्तः । यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ॑रश्विना॒वैर॑येथाम् ॥५॥
यु॒वं ह॑ स्थो भि॒षजा॑ भेष॒जेभि॒रथो॑ ह स्थो र॒थ्या॒ ३ राथ्ये॑भिः । अथो॑ ह क्ष॒त्रमधि॑ धत्थ उग्रा॒ यो वां॑ ह॒विष्मा॒न् मन॑सा द॒दाश॑ ॥६॥