सूक्त १५३

ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त १५३

Back to Veda

Script

Translation

४ दीर्घतमा औचथ्यः । मित्रावरुणौ । त्रिष्टुप् ।
यजा॑महे वां म॒हः स॒जोषा॑ ह॒व्येभि॑र्मित्रावरुणा॒ नमो॑भिः । घृ॒तैर्घृ॑तस्नू॒ अध॒ यद् वा॑म॒स्मे अ॑ध्व॒र्यवो॒ न धी॒तिभि॒र्भर॑न्ति ॥१॥
प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया॑मि मित्रावरुणा सुवृ॒क्तिः । अ॒नक्ति॒ यद् वां॑ वि॒दथे॑षु॒ होता॑ सु॒म्नं वां॑ सू॒रिर्वृ॑षणा॒विय॑क्षन् ॥२॥
पी॒पाय॑ धे॒नुरदि॑तिर्ऋ॒ताय॒ जना॑य मित्रावरुणा हवि॒र्दे । हि॒नोति॒ यद् वां॑ वि॒दथे॑ सप॒र्यन् त्स रा॒तह॑व्यो॒ मानु॑षो॒ न होता॑ ॥३॥
उ॒त वां॑ वि॒क्षु मद्या॒स्वन्धो॒ गाव॒ आप॑श्च पीपयन्त दे॒वीः । उ॒तो नो॑ अ॒स्य पू॒र्व्यः पति॒र्दन् वी॒तं पा॒तं पय॑स उ॒स्रिया॑याः ॥४॥