सूक्त १५०
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त १५०
Script
Translation
Previous
सूक्त १४९
Next
सूक्त १५१
३ दीर्घतमा औचथ्यः । अग्निः । उष्णिक् ।
पु॒रु त्वा॑ दा॒श्वान् वो॑चे॒ ऽरिर॑ग्ने॒ तव॑ स्वि॒दा ।
तो॒दस्ये॑व शर॒ण आ म॒हस्य॑ ॥१॥
व्य॑नि॒नस्य॑ ध॒निनः॑ प्रहो॒षे चि॒दर॑रुषः ।
क॒दा च॒न प्र॒जिग॑तो॒ अदे॑वयोः ॥२॥
स च॒न्द्रो वि॑प्र॒ मर्त्यो॑ म॒हो व्राध॑न्तमो दि॒वि ।
प्रप्रेत् ते॑ अग्ने व॒नुषः॑ स्याम ॥३॥
Previous
सूक्त १४९
Next
सूक्त १५१