सूक्त १३७
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त १३७
Script
Translation
Previous
सूक्त १३६
Next
सूक्त १३८
३ परुच्छेपो दैवोदासिः । मित्रावरुणौ ।अतिशक्वरी ।
सु॒षु॒मा या॑त॒मद्रि॑भि॒र्गोश्री॑ता मत्स॒रा इ॒मे सोमा॑सो मत्स॒रा इ॒मे ।
आ रा॑जाना दिविस्पृशा ऽस्म॒त्रा ग॑न्त॒मुप॑ नः ।
इ॒मे वां॑ मित्रावरुणा॒ गवा॑शिरः॒ सोमाः॑ शु॒क्रा गवा॑शिरः ॥१॥
इ॒म आ या॑त॒मिन्द॑वः॒ सोमा॑सो॒ दध्या॑शिरः सु॒तासो॒ दध्या॑शिरः ।
उ॒त वा॑मु॒षसो॑ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ।
सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑र्ऋ॒ताय॑ पी॒तये॑ ॥२॥
तां वां॑ धे॒नुं न वा॑स॒रीमं॒शुं दु॑ह॒न्त्यद्रि॑भिः॒ सोमं॑ दुह॒न्त्यद्रि॑भिः ।
अ॒स्म॒त्रा ग॑न्त॒मुप॑ नो॒ऽर्वाञ्चा॒ सोम॑पीतये ।
अ॒यं वां॑ मित्रावरुणा॒ नृभिः॑ सु॒तः सोम॒ आ पी॒तये॑ सु॒तः ॥३॥
Previous
सूक्त १३६
Next
सूक्त १३८