सूक्त १०७
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त १०७
Script
Translation
Previous
सूक्त १०६
Next
सूक्त १०८
३ कुत्स आङ्गिरसः । विश्वे देवाः । त्रिष्टुप् ।
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ ।
आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥१॥
उप॑ नो दे॒वा अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः ।
इन्द्र॑ इन्द्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥२॥
तन्न॒ इन्द्र॒स्तद् वरु॑ण॒स्तद॒ग्निस्तद॑र्य॒मा तत् स॑वि॒ता चनो॑ धात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥३॥
Previous
सूक्त १०६
Next
सूक्त १०८