सूक्त १००
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त १००
Script
Translation
Previous
सूक्त ९९
Next
सूक्त १०१
१९ वार्षागिराः ऋज्रा श्वाऽम्बरीष-सहदेव-भयमान-सुराधसः । इन्द्रः । त्रिष्टुप् ।
स यो वृषा॒ वृष्ण्ये॑भिः॒ समो॑का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् ।
स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥१॥
यस्याना॑प्तः॒ सूर्य॑स्येव॒ यामो॒ भरे॑भरे वृत्र॒हा शुष्मो॒ अस्ति॑ ।
वृष॑न्तमः॒ सखि॑भिः॒ स्वेभि॒रेवै॑र्म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥२॥
दि॒वो न यस्य॒ रेत॑सो॒ दुघा॑नाः॒ पन्था॑सो॒ यन्ति॒ शव॒साप॑रीताः ।
त॒रद्द्वे॑षाः सास॒हिः पौंस्ये॑भिर्म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥३॥
सो अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द् वृषा॒ वृष॑भिः॒ सखि॑भिः॒ सखा॒ सन् ।
ऋ॒ग्मिभि॑र्ऋग्मी गा॒तुभि॒र्ज्येष्ठो॑ म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥४॥
स सू॒नुभि॒र्न रु॒द्रेभि॒र्ऋभ्वा॑ नृ॒षाह्ये॑ सास॒ह्वाँ अ॒मित्रा॑न् ।
सनी॑ळेभिः श्रव॒स्या॑नि॒ तूर्व॑न् म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥५॥
स म॑न्यु॒मीः स॒मद॑नस्य क॒र्ता ऽस्माके॑भि॒र्नृभिः॒ सूर्यं॑ सनत् ।
अ॒स्मिन्नह॒न्त्सत्प॑तिः पुरुहू॒तो म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥६॥
तमू॒तयो॑ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तयः॑ कृण्वत॒ त्राम् ।
स विश्व॑स्य क॒रुण॑स्येश॒ एको॑ म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥७॥
तम॑प्सन्त॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना॑य ।
सो अ॒न्धे चि॒त् तम॑सि॒ ज्योति॑र्विदन् म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥८॥
स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त् स द॑क्षि॒णे संगृ॑भीता कृ॒तानि॑ ।
स की॒रिणा॑ चि॒त् सनि॑ता॒ धना॑नि म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥९॥
स ग्रामे॑भिः॒ सनि॑ता॒ स रथे॑भिर्वि॒दे विश्वा॑भिः कृ॒ष्टिभि॒र्न्व१द्य ।
स पौंस्ये॑भिरभि॒भूरश॑स्तीर्म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥१०॥
स जा॒मिभि॒र्यत् स॒मजा॑ति मी॒ह्ले ऽजा॑मिभिर्वा पुरुहू॒त एवैः॑ ।
अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥ स व॑ज्र॒भृद् द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी॑थ॒ ऋभ्वा॑ ।
च॒म्री॒षो न शव॑सा॒ पाञ्च॑जन्यो म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥१२॥
तस्य॒ वज्रः॑ क्रन्दति॒ स्मत् स्व॒र्षा दि॒वो न त्वे॒षो र॒वथः॒ शिमी॑वान् ।
तं स॑चन्ते स॒नय॒स्तं धना॑नि म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥१३॥
यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद् रोद॑सी वि॒श्वतः॑ सीम् ।
स पा॑रिष॒त् क्रतु॑भिर्मन्दसा॒नो म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥१४॥
न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒ आप॑श्च॒न शव॑सो॒ अन्त॑मा॒पुः ।
स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥१५॥
रो॒हिच्छ्या॒वा सु॒मदं॑शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य ।
वृष॑ण्वन्तं॒ बिभ्र॑ती धू॒र्षु रथं॑ म॒न्द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ॥१६॥
ए॒तत् त्यत् त॑ इन्द्र॒ वृष्ण॑ उ॒क्थं वा॑र्षागि॒रा अ॒भि गृ॑णन्ति॒ राधः॑ ।
ऋ॒ज्राश्वः॒ प्रष्टि॑भिरम्ब॒रीषः॑ स॒हदे॑वो॒ भय॑मानः सु॒राधाः॑ ॥१७॥
दस्यू॒ञ्छिम्यूँ॑श्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत् ।
सन॒त् क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभिः॒ सन॒त् सूर्यं॒ सन॑द॒पः सु॒वज्रः॑ ॥१८॥
वि॒श्वाहेन्द्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज॑म् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥१९॥
Previous
सूक्त ९९
Next
सूक्त १०१