इलापुरुषत्वप्राप्तिः
उत्तरकाण्डः / इलापुरुषत्वप्राप्तिः
Script
Translation
Previous
पुरूरवोजननम्
Next
यज्ञसंविधानम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे इलापुरुषत्वप्राप्तिः नाम नवतितमः सर्गः ॥७-९०॥
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ।
उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥७-९०-१॥
इला सा सोमपुत्रस्य संवत्सरमथोषिता ।
अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥७-९०-२॥
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।
रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥७-९०-३॥
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।
संवर्तं परमोदारमाजुहाव महायशाः ॥७-९०-४॥
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।
प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ॥७-९०-५॥
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः ।
उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ॥७-९०-६॥
अयं राजा महाबाहुः कर्दमस्य इलः सुतः ।
जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ॥७-९०-७॥
तेषां संवदतामेव तमाश्रममुपागमत् ।
कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ॥७-९०-८॥
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।
ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ॥७-९०-९॥
ते सर्वे हृष्टमनसः परस्परसमागमे ।
हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥७-९०-१०॥
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् ।
द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥७-९०-११॥
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् ।
नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः ।
तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ॥७-९०-१२॥
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ।
रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ॥७-९०-१३॥
संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः ।
मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ॥७-९०-१४॥
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः ।
रुद्रश्च परमं तोषमाजगाम महायशाः ॥७-९०-१५॥
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ।
उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ ॥७-९०-१६॥
प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ।
अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ॥७-९०-१७॥
तथा वदति देवेशे द्विजास्ते सुसमाहिताः ।
प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ॥७-९०-१८॥
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ।
इलायै सुमहातेजा दत्त्वा चान्तरधीयत ॥७-९०-१९॥
निवृत्ते हयमेधे च गतश्चादर्शनं हरः ।
यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ॥७-९०-२०॥
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ।
निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ॥७-९०-२१॥
शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः ।
प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ॥७-९०-२२॥
स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् ।
ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ॥७-९०-२३॥
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ।
स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥७-९०-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे इलापुरुषत्वप्राप्तिः नाम नवतितमः सर्गः ॥७-९०॥
Previous
पुरूरवोजननम्
Next
यज्ञसंविधानम्